|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.19. अध्यायः 019
Mahabharata - Shanti Parva - Chapter Topics
अर्जुनंप्रति युधिष्ठिरवचनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-19-0x(5954)(72492)
वेदाहं तात शास्त्राणि अपराणि पराणि च।
उभयं वेदवचनं कुरु कर्म त्यजेति च॥ 12-19-1(72493)
आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च।
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि॥ 12-19-2(72494)
त्वं तु केवलशास्त्रज्ञो वीरव्रतसमन्वितः।
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन॥ 12-19-3(72495)
शास्त्रार्थतत्त्वदर्शी यो धर्मनिश्चयकोविदः।
तेनाप्येवं न वाच्योऽयं यदि धर्मं प्रपश्यसि॥ 12-19-4(72496)
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया।
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन॥ 12-19-5(72497)
`महेश्वरसमं सत्वं ब्रह्मणा चैव यत्समम्।
वासुदेवसमं चैव न भूतं न भविष्यति॥ 12-19-6(72498)
तथा त्वं योधमुख्येषु सत्वं परममिष्यते॥ 12-19-7(72499)
बलमिन्द्रे च वायौ च बलं यच्च जनार्दने।
तद्वलं भीमसेने च त्वयि चार्जुना विद्यते॥ 12-19-8(72500)
त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव।
दिव्यास्त्रबलसंपन्नः को वाऽन्यस्त्वत्समो नरः॥ 12-19-9(72501)
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च।
न त्वया सदृशः कश्चिन्त्रिषु लोकेषु विद्यते॥ 12-19-10(72502)
धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया।
धर्मसूक्ष्मं तु यद्वाच्यं तत्र दुष्प्रतरं त्वया।
धनञ्जय न मे बुद्धिमतिशङ्कितुमर्हसि॥ 12-19-11(72503)
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया।
समासविस्तरविदां न तेषां वेत्सि निश्चयम्॥ 12-19-12(72504)
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम्।
परस्परं ज्याय एषामिति नः श्रेयसी मतिः॥ 12-19-13(72505)
यत्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति।
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः॥ 12-19-14(72506)
तपः स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः।
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः॥ 12-19-15(72507)
अजातश्मश्रवो धीरास्तथाऽन्ये वनवासिनः।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः॥ 12-19-16(72508)
उत्तरेण तु पन्थानमार्या विषयनिग्रहात्।
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः॥ 12-19-17(72509)
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते।
एते क्रियावतां लोका ये श्मशानानि भेजिरे॥ 12-19-18(72510)
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः।
तस्मात्त्यागः प्रधानेष्टः स तु दुःखं प्रवेदितुम्॥ 12-19-19(72511)
अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः।
अपीह स्यादपीह स्यात्सारासारदिदृक्षया॥ 12-19-20(72512)
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च।
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते॥ 12-19-21(72513)
अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके।
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः॥ 12-19-22(72514)
अग्राह्यं चक्षुषा सत्वमनिर्देश्यं च तद्गिरा।
कर्महेतुपुरस्कारं भूतेषु पस्विर्तते॥ 12-19-23(72515)
कल्याणगोचरं कृत्वा मानं तृष्णां निगृह्य च।
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी॥ 12-19-24(72516)
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते।
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि॥ 12-19-25(72517)
पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत।
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि॥ 12-19-26(72518)
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः।
दृढपूर्वे स्मृता मूढा नैतदस्तीति वादिनः॥ 12-19-27(72519)
अनृतस्यावमन्तारो वक्तारो जनसंसदि।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः॥ 12-19-28(72520)
पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति।
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः॥ 12-19-29(72521)
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत्।
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित्॥ ॥ 12-19-30(72522)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशोऽध्यायः॥ 19॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-19-1 अपराणि धर्मशास्त्राणि। पराणि ब्रह्मशास्त्राणि॥ 12-19-2 अमूलानि च शास्त्राणि हेतुभिश्चित्रितानि च। निश्चयश्चैष यन्मन्त्र इति ट. ड. पाठः॥ 12-19-3 त्वं तु केवलमस्त्रज्ञ इति झ.पाठः॥ 12-19-11 तत्र विषये दुष्प्रतरं दुरवगाहम्॥ 12-19-16 अरुणाः केतवः ऋषिप्रभेदाः। अरण्ये बहवश्चैवेति झ.पाठः॥ 12-19-21 आरण्यकानि वेदान्तान्॥ 12-19-24 मनस्तृणां निगृह्य चेति झ. पाठः॥ 12-19-26 पूर्वशास्त्रविदः कर्मकाण्डविदोऽपि एवमर्थमनर्थत्वेन पश्यन्ति किमुत ज्ञानिनः॥ 12-19-27 दुरावर्ताः दुःखेनापि सिद्धान्तं ग्राहयितुमशक्याः। दृढः पूर्वः प्राग्भवीयः संस्कारो येषां ते दृढपूर्वे। बहुव्रीहावप्यार्षी सर्वनामता॥ 12-19-29 हे पार्थ यत् यान् लौकिकानप्यर्थान्न वयं विजानीमस्तान् इतरः को ज्ञातुमर्हति। न कोपि यथा। एवं प्राज्ञा अपि अस्माकमन्येषां च दुर्ज्ञेया इत्यर्थः॥ 12-19-30 महद्वैराग्यम्। महत्परंब्रह्म॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|